|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.13. अध्यायः 013
Mahabharata - Udyoga Parva - Chapter Topics
शच्या नहुषंप्रति इन्द्रस्यान्वेषणेऽप्यपरिज्ञाने त्वामुपस्थास्य इति समयकरणम् ॥ 1 ॥
देवैर्विष्ण्वाज्ञया इन्द्रस्य ब्रह्महत्यापनोदनाय अश्वमेधयाजनम् ॥ 2 ॥
ध्वस्तपाप्मनोपीन्द्रस्य पुनर्नहुषभयाददर्शने शोचन्त्या शच्या उपश्रुतिदेवीपूजनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
शल्य उवाच। 5-13-0x(3386)(32107)
अथ तामब्रवीद्दृष्ट्वा नहुषो देवराट् तदा।
त्रयाणामपि लोकानामहमिन्द्रः शुचिस्मिते ॥ 5-13-1(32108)
भजस्व मां वरारोहे पतित्वे वरवर्णिनि।
एवमुक्ता तु सा देवी नहुषेण पतिव्रता ॥ 5-13-2(32109)
प्रावेपत भयोद्विग्ना प्रवाते कदली यथा।
प्रणम्य सा हि ब्रह्माणं शिरसा तु कृताञ्जलिः ॥ 5-13-3(32110)
देवराजमथोवाच नहुषं घोरदर्शनम् ।
कालमिच्छाम्यहं लब्धुं त्वत्तः कंचित्सुरेश्वर ॥ 5-13-4(32111)
न हि विज्ञायते शक्रः किं वा प्राप्तः क्व वा गतः।
तत्त्वमेतत्तु विज्ञाय यदि न ज्ञायते प्रभो ॥ 5-13-5(32112)
ततोऽहं त्वामुपस्थास्ये सत्यमेतद्ब्रवीमि ते।
एवमुक्तः स इन्द्राण्या नहुषः प्रीतिमानभूत् ॥ 5-13-6(32113)
नहुष उवाच। 5-13-7x(3387)
एवं भवतु सुश्रोणि यथा मामिह भाषसे।
ज्ञात्वा चागमनं कार्यं सत्यमेतदनुस्मरेः ॥ 5-13-7(32114)
नहुषेण विसृष्टा च निश्चक्राम ततः शुभा।
बृहस्पतिनिकेतं च सा जगाम यशस्विनी ॥ 5-13-8(32115)
तस्याः संश्रुत्य च वचो देवाश्चाग्निपुरोगमाः ।
चिन्तयामासुरेकाग्राः शक्रार्थं राजसत्तम ॥ 5-13-9(32116)
देवदेवेन शङ्गम्य विष्णुना प्रभविष्णुना।
ऊचुश्चैनं समुद्विग्ना वाक्यं वाक्यविशारदाः ॥ 5-13-10(32117)
ब्रह्मवध्याभिभूतो वै शक्रः सुरगणेश्वरः ।
गतिश्च नस्त्वं देवेश पूर्वजो जगतः प्रभुः ॥ 5-13-11(32118)
रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्।
त्वद्वीर्यनिहते वृत्रे वासवो ब्रह्महत्यया ॥ 5-13-12(32119)
वृतः सुरगणश्रेष्ठ मोक्षं तस्य विनिर्दिश।
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ॥ 5-13-13(32120)
मामेव यजतां शक्रः पावयिष्यामि वज्रिणम्।
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ॥ 5-13-14(32121)
पुनरेष्यति देवानामिन्द्रत्वमकुतोभयः।
स्वकर्मभिश्च नहुषो नाशं यास्यति दुर्मतिः ॥ 5-13-15(32122)
किंचित्कालमिदं देवा मर्षयध्वमतन्द्रिताः।
श्रुत्वा विष्णोः शुभां सत्यां वाणीं ताममृतोपमाम्। 5-13-16(32123)
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।
यत्र शक्रो भयोद्विग्नस्तं देशमुपचक्रमुः ॥ 5-13-17(32124)
तत्राश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।
ववृते पावनार्थं वै ब्रह्महत्यापहो नृप ॥ 5-13-18(32125)
विभज्य ब्रह्महत्यां तु वृक्षेषु च नदीषु च।
पर्वतेषु पृथिव्यां च स्त्रीषु चैव युधिष्ठिर ॥ 5-13-19(32126)
संविभज्य च भूतेषु विसृज्य च सुरेश्वरः।
विज्वरो धूतपाप्मा च वासवोऽभवदात्मवान् ॥ 5-13-20(32127)
अकम्प्यं नहुषं स्थानाद्दृष्ट्वा बलनिषूदनः।
तेजोघ्नं सर्वभूतानां वरदानाच्च दुःसहम्॥ 5-13-21(32128)
ततः शचीपतिर्देवः पुनरेव व्यनश्यत।
अदृश्यः सर्वभूतानां कालाकाङ्क्षी चचार ह ॥ 5-13-22(32129)
प्रनष्टे तु ततः शक्रे शची शोकसमन्विता ।
हा शक्रेति तदा देवी विललाप सुदुःखिता ॥ 5-13-23(32130)
यदि दत्तं यदि हुतं गुरवस्तोषिता यदि।
एकभर्तृत्वमेवास्तु सत्यं यद्यस्ति वा मयि ॥ 5-13-24(32131)
पुण्यां चेमामहं दिव्यां प्रवृत्तामुत्तरायणे।
देवीं रात्रिं नमस्यामि सिध्यतां मे मनोरथः ॥ 5-13-25(32132)
प्रयता च निशां देवीमुपातिष्ठत तत्र सा।
पतिव्रतात्वात्सत्येन सोपश्रुतिमथाकरोत् ॥ 5-13-26(32133)
यत्रास्ते देवराजोऽसौ तं देशं दर्शयस्व मे।
इत्याहोपश्रुतिं देवीं सत्यं सत्येन दृश्यताम् ॥ ॥ 5-13-27(32134)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि त्रयोदशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-13-12 विष्णुत्वं व्यापकत्वम् ॥ 12 ॥ 5-13-26 आकरोत् आकारितवती ॥ 26 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|